HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि ।महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः ।।8/179
यो यथा निक्षिपेद्धस्ते यं अर्थं यस्य मानवः ।स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः ।।8/180
यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति ।स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ ।।8/181
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः ।अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः ।।8/182
स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् ।न तत्र विद्यते किं चिद्यत्परैरभियुज्यते ।।8/183
तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि ।उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा ।।8/184
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे ।नश्यतो विनिपाते तावनिपाते त्वनाशिनौ ।।8/185
स्वयं एव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे ।न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः ।।8/186
अच्छलेनैव चान्विच्छेत्तं अर्थं प्रीतिपूर्वकम् ।विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् ।।8/187
निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने ।समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् ।।8/188
चौरैर्हृतं जलेनोढं अग्निना दग्धं एव वा ।न दद्याद्यदि तस्मात्स न संहरति किं चन ।।8/189
निक्षेपस्यापहर्तारं अनिक्षेप्तारं एव च ।सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः ।।8/190
यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते ।तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् ।।8/191
निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् ।तथोपनिधिहर्तारं अविशेषेण पार्थिवः ।।8/192
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः ।ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः ।।8/193
निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ ।तावानेव स विज्ञेयो विब्रुवन्दण्डं अर्हति ।।8/194
मिथो दायः कृतो येन गृहीतो मिथ एव वा ।मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः ।।8/195
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च ।राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् ।।8/196