HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः ।ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु ।।8/245
सींआवृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् ।शाल्मलीन्सालतालांश्च क्षीरिणश्चैव पादपान् ।।8/246
गुल्मान्वेणूंश्च विविधान्शमीवल्लीस्थलानि च ।शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति ।।8/247
शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति ।तडागान्युदपानानि वाप्यः प्रस्रवणानि च ।।8/248
उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् ।सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् ।।8/249
अश्मनोऽस्थीनि गोवालांस्तुषान्भस्म कपालिकाः ।करीषं इष्टकाङ्गारांश्शर्करा वालुकास्तथा ।।8/250
यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् ।तानि संधिषु सीमायां अप्रकाशानि कारयेत् ।।8/251
एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः ।पूर्वभुक्त्या च सततं उदकस्यागमेन च ।।8/252
यदि संशय एव स्याल्लिङ्गानां अपि दर्शने ।साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः ।।8/253
ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः ।प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः ।।8/254
ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् ।निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः ।।8/255
शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः ।सुकृतैः शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम् ।।8/256
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः ।विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् ।।8/257
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः ।सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ ।।8/258
सामन्तानां अभावे तु मौलानां सीम्नि साक्षिणाम् ।इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् ।।8/259
व्याधाञ् शाकुनिकान्गोपान्कैवर्तान्मूलखानकान् ।व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः ।।8/260
ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् ।तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः ।।8/261
क्षेत्रकूपतडागानां आरामस्य गृहस्य च ।सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः ।।8/262
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम् ।सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् ।।8/263
गृहं तडागं आरामं क्षेत्रं वा भीषया हरन् ।शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः ।।8/264