HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे ।विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः ।।8/229
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे ।योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतां इयात् ।।8/230
गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् ।गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः ।।8/231
नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् ।हीनं पुरुषकारेण प्रदद्यात्पाल एव तु ।।8/232
विघुष्य तु हृतं चौरैर्न पालो दातुं अर्हति ।यदि देशे च काले च स्वामिनः स्वस्य शंसति ।।8/233
कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् ।पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् ।।8/234
अजाविके तु संरुद्धे वृकैः पाले त्वनायति ।यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् ।।8/235
तासां चेदवरुद्धानां चरन्तीनां मिथो वने ।यां उत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी ।।8/236
धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः ।शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु ।।8/237
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि ।न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् ।।8/238
वृतिं तत्र प्रकुर्वीत यां उष्ट्रो न विलोकयेत् ।छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम् ।।8/239
पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः ।सपालः शतदण्डार्हो विपालान्वारयेत्पशून् ।।8/240
क्षेत्रेष्वन्येषु तु पशुः सपादं पणं अर्हति ।सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा ।।8/241
अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा ।सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् ।।8/242
क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् ।ततोऽर्धदण्डो भृत्यानां अज्ञानात्क्षेत्रिकस्य तु ।।8/243
एतद्विधानं आतिष्ठेद्धार्मिकः पृथिवीपतिः ।स्वामिनां च पशूनां च पालानां च व्यतिक्रमे ।।8/244