HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् ।स दण्डं प्राप्नुयान्माषं तच्च तस्मिन्समाहरेत् ।।8/319
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः ।शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् ।।8/320
तथा धरिममेयानां शतादभ्यधिके वधः ।सुवर्णरजतादीनां उत्तमानां च वाससाम् ।।8/321
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनं इष्यते ।शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् ।।8/322
पुरुषाणां कुलीनानां नारीणां च विशेषतः ।मुख्यानां चैव रत्नानां हरणे वधं अर्हति ।।8/323
महापशूनां हरणे शस्त्राणां औषधस्य च ।कालं आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् ।।8/324
गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने ।पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः ।।8/325
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च ।दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च ।।8/326
वेणुवैदलभाण्डानां लवणानां तथैव च ।मृण्मयानां च हरणे मृदो भस्मन एव च ।।8/327
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च ।मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् ।।8/328
अन्येषां चैवमादीनां मद्यानां ओदनस्य च ।पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः ।।8/329
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च ।अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः ।।8/330
परिपूतेषु धान्येषु शाकमूलफलेषु च ।निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः ।।8/331