HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
7. राजधर्म विषय
अलब्धं चैव लिप्सेत लब्धं रक्षेत्प्रयत्नतः ।रक्षितं वर्धयेच्चैव वृद्धं पात्रेषु निक्षिपेत् ।।7/99
एतच्चतुर्विधं विद्यात्पुरुषार्थप्रयोजनम् ।अस्य नित्यं अनुष्ठानं सम्यक्कुर्यादतन्द्रितः ।।7/100
अलब्धं इच्छेद्दण्डेन लब्धं रक्षेदवेक्षया ।रक्षितं वर्धयेद्वृद्ध्या वृद्धं पात्रेषु निक्षिपेत् ।।7/101
नित्यं उद्यतदण्डः स्यान्नित्यं विवृतपौरुषः ।नित्यं संवृतसंवार्यो नित्यं छिद्रानुसार्यरेः ।।7/102
नित्यं उद्यतदण्डस्य कृत्स्नं उद्विजते जगत् ।तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ।।7/103
अमाययैव वर्तेत न कथं चन मायया ।बुध्येतारिप्रयुक्तां च मायां नित्यं सुसंवृतः ।।7/104
नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च ।गूहेत्कूर्म इवाङ्गानि रक्षेद्विवरं आत्मनः ।।7/105
बकवच्चिन्तयेदर्थान्सिंहवच्च पराक्रमे ।वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।।7/106
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः ।तानानयेद्वशं सर्वान्सामादिभिरुपक्रमैः ।।7/107
यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः ।दण्डेनैव प्रसह्यैताञ् शनकैर्वशं आनयेत् ।।7/108
सामादीनां उपायानां चतुर्णां अपि पण्डिताः ।सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ।।7/109
यथोद्धरति निर्दाता कक्षं धान्यं च रक्षति ।तथा रक्षेन्नृपो राष्ट्रं हन्याच्च परिपन्थिनः ।।7/110