HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
उत्कोचकाश्चाउपधिका वञ्चकाः कितवास्तथा ।मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह ।।9/258
असम्यक्कारिणश्चैव महामात्राश्चिकित्सकाः ।शिल्पोपचारयुक्ताश्च निपुणाः पण्ययोषितः ।।9/259
एवमादीन्विजानीयात्प्रकाशांल्लोककण्टकान् ।निगूढचारिणश्चान्याननार्यानार्यलिङ्गिनः ।।9/260
तान्विदित्वा सुचरितैर्गूढैस्तत्कर्मकारिभिः ।चारैश्चानेकसंस्थानैः प्रोत्साद्य वशं आनयेत् ।।9/261
तेषां दोषानभिख्याप्य स्वे स्वे कर्मणि तत्त्वतः ।कुर्वीत शासनं राजा सम्यक्सारापराधतः ।।9/262
न हि दण्डादृते शक्यः कर्तुं पापविनिग्रहः ।स्तेनानां पापबुद्धीनां निभृतं चरतां क्षितौ ।।9/263
सभाप्रपापूपशाला वेशमद्यान्नविक्रयाः ।चतुष्पथांश्चैत्यवृक्षाः समाजाः प्रेक्षणानि च ।।9/264
जीर्णोद्यानान्यरण्यानि कारुकावेशनानि च ।शून्यानि चाप्यगाराणि वनान्युपवनानि च ।।9/265
एवंविधान्नृपो देशान्गुल्मैः स्थावरजङ्गमैः ।तस्करप्रतिषेधार्थं चारैश्चाप्यनुचारयेत् ।।9/266
तत्सहायैरनुगतैर्नानाकर्मप्रवेदिभिः ।विद्यादुत्सादयेच्चैव निपुणैः पूर्वतस्करैः ।।9/267
भक्ष्यभोज्योपदेशैश्च ब्राह्मणानां च दर्शनैः ।शौर्यकर्मापदेशैश्च कुर्युस्तेषां समागमम् ।।9/268
ये तत्र नोपसर्पेयुर्मूलप्रणिहिताश्च ये ।तान्प्रसह्य नृपो हन्यात्समित्रज्ञातिबान्धवान् ।।9/269