HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
क्षेत्रभूता स्मृता नारी बीजभूतः स्मृतः पुमान् ।क्षेत्रबीजसमायोगात्संभवः सर्वदेहिनाम् ।।9/33
विशिष्टं कुत्र चिद्बीजं स्त्रीयोनिस्त्वेव कुत्र चित् ।उभयं तु समं यत्र सा प्रसूतिः प्रशस्यते ।।9/34
बीजस्य चैव योन्याश्च बीजं उत्कृष्टं उच्यते ।सर्वभूतप्रसूतिर्हि बीजलक्षणलक्षिता ।।9/35
यादृशं तूप्यते बीजं क्षेत्रे कालोपपादिते ।तादृग्रोहति तत्तस्मिन्बीजं स्वैर्व्यञ्जितं गुणैः ।।9/36
इयं भूमिर्हि भूतानां शाश्वती योनिरुच्यते ।न च योनिगुणान्कांश्चिद्बीजं पुष्यति पुष्टिषु ।।9/37
भूमावप्येककेदारे कालोप्तानि कृषीवलैः ।नानारूपाणि जायन्ते बीजानीह स्वभावतः ।।9/38
व्रीहयः शालयो मुद्गास्तिला माषास्तथा यवाः ।यथाबीजं प्ररोहन्ति लशुनानीक्षवस्तथा ।।9/39
अन्यदुप्तं जातं अन्यदित्येतन्नोपपद्यते ।उप्यते यद्धि यद्बीजं तत्तदेव प्ररोहति ।।9/40
तत्प्राज्ञेन विनीतेन ज्ञानविज्ञानवेदिना ।आयुष्कामेन वप्तव्यं न जातु परयोषिति ।।9/41
अत्र गाथा वायुगीताः कीर्तयन्ति पुराविदः ।यथा बीजं न वप्तव्यं पुंसा परपरिग्रहे ।।9/42
नश्यतीषुर्यथा विद्धः खे विद्धं अनुविध्यतः ।तथा नश्यति वै क्षिप्रं बीजं परपरिग्रहे ।।9/43
पृथोरपीमां पृथिवीं भार्यां पूर्वविदो विदुः ।स्थाणुच्छेदस्य केदारं आहुः शाल्यवतो मृगम् ।।9/44
एतावानेव पुरुषो यज्जायात्मा प्रजेति ह ।विप्राः प्राहुस्तथा चैतद्यो भर्ता सा स्मृताङ्गना ।।9/45
न निष्क्रयविसर्गाभ्यां भर्तुर्भार्या विमुच्यते ।एवं धर्मं विजानीमः प्राक्प्रजापतिनिर्मितम् ।।9/46
सकृदंशो निपतति सकृत्कन्या प्रदीयते ।सकृदाह ददानीति त्रीण्येतानि सतां सकृत् ।।9/47
यथा गोऽश्वोष्ट्रदासीषु महिष्यजाविकासु च ।नोत्पादकः प्रजाभागी तथैवान्याङ्गनास्वपि ।।9/48