HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः ।उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् ।।8/352
तत्समुत्थो हि लोकस्य जायते वर्णसंकरः ।येन मूलहरोऽधर्मः सर्वनाशाय कल्पते ।।8/353
परस्य पत्न्या पुरुषः संभाषां योजयन्रहः ।पूर्वं आक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् ।।8/354
यस्त्वनाक्षारितः पूर्वं अभिभाषते कारणात् ।न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः ।।8/355
परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा ।नदीनां वापि संभेदे स संग्रहणं आप्नुयात् ।।8/356
उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् ।सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् ।।8/357
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया ।परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् ।।8/358
अब्राह्मणः संग्रहणे प्राणान्तं दण्डं अर्हति ।चतुर्णां अपि वर्णानां दारा रक्ष्यतमाः सदा ।।8/359
भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा ।संभाषनं सह स्त्रीभिः कुर्युरप्रतिवारिताः ।।8/360
न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् ।निषिद्धो भाषमाणस्तु सुवर्णं दण्डं अर्हति ।।8/361
नैष चारणदारेषु विधिर्नात्मोपजीविषु ।सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च ।।8/362
किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् ।प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च ।।8/363
योऽकामां दूषयेत्कन्यां स सद्यो वधं अर्हति ।सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः ।।8/364
कन्यां भजन्तीं उत्कृष्टं न किं चिदपि दापयेत् ।जघन्यं सेवमानां तु संयतां वासयेद्गृहे ।।8/365
उत्तमां सेवमानस्तु जघन्यो वधं अर्हति ।शुल्कं दद्यात्सेवमानः समां इच्छेत्पिता यदि ।।8/366
अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः ।तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् ।।8/367
सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदं आप्नुयात् ।द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये ।।8/368
कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः ।शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश ।।8/369
या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यं अर्हति ।अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा ।।8/370
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता ।तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते ।।8/371