HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः ।अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् ।।8/278
येन केन चिदङ्गेन हिंस्याच्चेच्छ्रेष्ठं अन्त्यजः ।छेत्तव्यं तद्तदेवास्य तन्मनोरनुशासनम् ।।8/279
पाणिं उद्यम्य दण्डं वा पाणिच्छेदनं अर्हति ।पादेन प्रहरन्कोपात्पादच्छेदनं अर्हति ।।8/280
सहासनं अभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः ।कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् ।।8/281
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः ।अवमूत्रयतो मेढ्रं अवशर्धयतो गुदम् ।।8/282
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् ।पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च ।।8/283
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः ।मांसभेत्ता तु षण्निष्कान्प्रवास्यस्त्वस्थिभेदकः ।।8/284
वनस्पतीनां सर्वेषां उपभोगो यथा यथा ।यथा तथा दमः कार्यो हिंसायां इति धारणा ।।8/285
मनुष्याणां पशूनां च दुःखाय प्रहृते सति ।यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा ।।8/286
अङ्गावपीडनायां च व्रणशोनितयोस्तथा ।समुत्थानव्ययं दाप्यः सर्वदण्डं अथापि वा ।।8/287
द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा ।स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् ।।8/288
चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु ।मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च ।।8/289
यानस्य चैव यातुश्च यानस्वामिन एव च ।दशातिवर्तनान्याहुः शेषे दण्डो विधीयते ।।8/290
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते ।अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च ।।8/291
छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च ।आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् ।।8/292
यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु ।तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ।।8/293
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डं अर्हति ।युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् ।।8/294
स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा ।प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः ।।8/295
मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् ।प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु ।।8/296
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः ।पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु ।।8/297
गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः ।माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने ।।8/298
भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः ।प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा ।।8/299
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन ।अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चौरकिल्बिषम् ।।8/300