HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
7. राजधर्म विषय
क्रयविक्रयं अध्वानं भक्तं च सपरिव्ययम् ।योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ।।7/127
यथा फलेन युज्येत राजा कर्ता च कर्मणाम् ।तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ।।7/128
यथाल्पाल्पं अदन्त्याद्यं वार्योकोवत्सषट्पदाः ।तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः ।।7/129
पञ्चाशद्भाग आदेयो राज्ञा पशुहिरण्ययोः ।धान्यानां अष्टमो भागः षष्ठो द्वादश एव वा ।।7/130
आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् ।गन्धौषधिरसानां च पुष्पमूलफलस्य च ।।7/131
पत्रशाकतृणानां च चर्मणां वैदलस्य च ।मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ।।7/132
म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ।न च क्षुधास्य संसीदेच्छ्रोत्रियो विषये वसन् ।।7/133
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ।तस्यापि तत्क्षुधा राष्ट्रं अचिरेनैव सीदति ।।7/134
श्रुतवृत्ते विदित्वास्य वृत्तिं धर्म्यां प्रकल्पयेत् ।संरक्षेत्सर्वतश्चैनं पिता पुत्रं इवाउरसम् ।।7/135
संरक्ष्यमाणो राज्ञा यं] कुरुते धर्मं अन्वहम् ।तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रं एव च ।।7/136
यत्किं चिदपि वर्षस्य दापयेत्करसंज्ञितम् ।व्यवहारेण जीवन्तं राजा राष्ट्रे पृथग्जनम् ।।7/137
कारुकाञ् शिल्पिनश्चैव शूद्रांस्चात्मोपजीविनः ।एकैकं कारयेत्कर्म मासि मासि महीपतिः ।।7/138