HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
वैश्वदेवस्य सिद्धस्य गृह्येऽग्नौ विधिपूर्वकम् ।आभ्यः कुर्याद्देवताभ्यो ब्राह्मणो होमं अन्वहम् 3/84
अग्नेः सोमस्य चैवादौ तयोश्चैव समस्तयोः ।विश्वेभ्यश्चैव देवेभ्यो धन्वन्तरय एव च 3/85
कुह्वै चैवानुमत्यै च प्रजापतय एव च ।सह द्यावापृथिव्योश्च तथा स्विष्टकृतेऽन्ततः 3/86
एवं सम्यग्घविर्हुत्वा सर्वदिक्षु प्रदक्षिणम् ।इन्द्रान्तकाप्पतीन्दुभ्यः सानुगेभ्यो बलिं हरेत् 3/87
मरुद्भ्य इति तु द्वारि क्षिपेदप्स्वद्भ्य इत्यपि ।वनस्पतिभ्य इत्येवं मुसलोलूखले हरेत् 3/88
उच्छीर्षके श्रियै कुर्याद्भद्रकाल्यै च पादतः ।ब्रह्मवास्तोष्पतिभ्यां तु वास्तुमध्ये बलिं हरेत् 3/89
विश्वेभ्यश्चैव देवेभ्यो बलिं आकाश उत्क्षिपेत् ।दिवाचरेभ्यो भूतेभ्यो नक्तंचारिभ्य एव च 3/90
पृष्ठवास्तुनि कुर्वीत बलिं सर्वात्मभूतये ।पितृभ्यो बलिशेषं तु सर्वं दक्षिणतो हरेत् 3/91
शूनां च पतितानां च श्वपचां पापरोगिणाम् ।वयसानां कृमीणां च शनकैर्निर्वपेद्भुवि 3/92