HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
सर्वेषां अपि चैतेषां शुभानां इह कर्मणाम् ।किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति ।।12/84
सर्वेषां अपि चैतेषां आत्मज्ञानं परं स्मृतम् ।तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः ।।12/85
षण्णां एषां तु सर्वेषां कर्मणां प्रेत्य चेह च ।श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् ।।12/86
वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः ।अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ ।।12/87
सुखाभ्युदयिकं चैव नैःश्रेयसिकं एव च ।प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।।12/88
इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते ।निष्कामं ज्ञातपूर्वं तु निवृत्तं उपदिश्यते ।।12/89
प्रवृत्तं कर्म संसेव्यं देवानां एति साम्यताम् ।निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै ।।12/90
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।समं पश्यन्नात्मयाजी स्वाराज्यं अधिगच्छति ।।12/91