HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
सीमायां अविषह्यायां स्वयं राजैव धर्मवित् ।प्रदिशेद्भूमिं एकेषां उपकारादिति स्थितिः ।।8/265
एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये ।अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् ।।8/266
शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति ।वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधं अर्हति ।।8/267
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः ।।8/268
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे ।वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् ।।8/269
एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् ।जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः ।।8/270
नामजातिग्रहं त्वेषां अभिद्रोहेण कुर्वतः ।निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः ।।8/271
धर्मोपदेशं दर्पेण विप्राणां अस्य कुर्वतः ।तप्तं आसेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः ।।8/272
श्रुतं देशं च जातिं च कर्म शरीरं एव च ।वितथेन ब्रुवन्दर्पाद्दाप्यः स्याद्द्विशतं दमम् ।।8/273
काणं वाप्यथ वा खञ्जं अन्यं वापि तथाविधम् ।तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् ।।8/274
मातरं पितरं जायां भ्रातरं तनयं गुरुम् ।आक्षारयञ् शतं दाप्यः पन्थानं चाददद्गुरोः ।।8/275
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता ।ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः ।।8/276
विट्शूद्रयोरेवं एव स्वजातिं प्रति तत्त्वतः ।छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः ।।8/277