HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः ।न तं नयेत साक्ष्यं तु स्तेनं अस्तेनमानिनम् ।।8/197
अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम् ।निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् ।।8/198
अस्वामिना कृतो यस्तु दायो विक्रय एव वा ।अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः ।।8/199
संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् ।आगमः कारणं तत्र न संभोग इति स्थितिः ।।8/200
विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ ।क्रयेण स विशुद्धं हि न्यायतो लभते धनम् ।।8/201
अथ मूलं अनाहार्यं प्रकाशक्रयशोधितः ।अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् ।।8/202
नान्यदन्येन संसृष्ट रूपं विक्रयं अर्हति ।न चासारं न च न्यूनं न दूरेण तिरोहितम् ।।8/203
अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते ।उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः ।।8/204
नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना ।पूर्वं दोषानभिख्याप्य प्रदाता दण्डं अर्हति ।।8/205