HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः ।मावमंस्थाः स्वं आत्मानं नृणां साक्षिणं उत्तमम् ।।8/84
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः ।तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ।।8/85
द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः ।रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् ।।8/86
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् ।उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् ।।8/87
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् ।गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।।8/88
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः ।मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा ।।8/89
जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम् ।तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वं अन्यथा ।।8/90
एकोऽहं अस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे ।नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः ।।8/91
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः ।तेन चेदविवादस्ते मा गङ्गां मा कुरून्गमः ।।8/92
नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः ।अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यं अनृतं वदेत् ।।8/93
अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् ।यः प्रश्नं वितथं ब्रूयात्पृष्टः सन्धर्मनिश्चये ।।8/94
अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह ।यो भाषतेऽर्थवैकल्यं अप्रत्यक्षं सभां गतः ।।8/95
यस्य विद्वान्हि वदतः क्षेत्रज्ञो नाभिशङ्कते ।तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः ।।8/96
यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् ।तावतः संख्यया तस्मिन्शृणु सौम्यानुपूर्वशः ।।8/97
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते ।शतं अश्वानृते हन्ति सहस्रं पुरुषानृते ।।8/98
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् ।सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः ।।8/99
अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने ।अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च ।।8/100
एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे ।यथाश्रुतं यथादृष्टं सर्वं एवाञ्जसा वद ।।8/101
गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् ।प्रेष्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत् ।।8/102
तद्वदन्धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः ।न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम् ।।8/103
शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद्वधः ।तत्र वक्तव्यं अनृतं तद्धि सत्याद्विशिष्यते ।।8/104
वाग्गैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् ।अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् ।।8/105
कूष्माण्डैर्वापि जुहुयाद्घृतं अग्नौ यथाविधि ।उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा ।।8/106
त्रिपक्षादब्रुवन्साक्ष्यं ऋणादिषु नरोऽगदः ।तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः ।।8/107
यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः ।रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः ।।8/108