HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
वैश्यस्तु कृतसंस्कारः कृत्वा दारपरिग्रहम् ।वार्तायां नित्ययुक्तः स्यात्पशूनां चैव रक्षणे ।।9/326
प्रजापतिर्हि वैश्याय सृष्ट्वा परिददे पशून् ।ब्राह्मणाय च राज्ञे च सर्वाः परिददे प्रजाः ।।9/327
न च वैश्यस्य कामः स्यान्न रक्षेयं पशूनिति ।वैश्ये चेच्छति नान्येन रक्षितव्याः कथं चन ।।9/328
मणिमुक्ताप्रवालानां लोहानां तान्तवस्य च ।गन्धानां च रसानां च विद्यादर्घबलाबलम् ।।9/329
बीजानां उप्तिविच्च स्यात्क्षेत्रदोषगुणस्य च ।मानयोगं च जानीयात्तुलायोगांश्च सर्वशः ।।9/330
सारासारं च भाण्डानां देशानां च गुणागुणान् ।लाभालाभं च पण्यानां पशूनां परिवर्धनम् ।।9/331
भृत्यानां च भृतिं विद्याद्भाषाश्च विविधा नृणाम् ।द्रव्याणां स्थानयोगांश्च क्रयविक्रयं एव च ।।9/332
धर्मेण च द्रव्यवृद्धावातिष्ठेद्यत्नं उत्तमम् ।दद्याच्च सर्वभूतानां अन्नं एव प्रयत्नतः ।।9/333
विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् ।शुश्रूषैव तु शूद्रस्य धर्मो नैश्रेयसः परः ।।9/334