HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ सुहृत्तथा ।सप्त प्रकृतयो ह्येताः सप्ताङ्गं राज्यं उच्यते ।।9/294
सप्तानां प्रकृतीनां तु राज्यस्यासां यथाक्रमम् ।पूर्वं पूर्वं गुरुतरं जानीयाद्व्यसनं महत् ।।9/295
सप्ताङ्गस्येह राज्यस्य विष्टब्धस्य त्रिदण्डवत् ।अन्योन्यगुणवैशेष्यान्न किं चिदतिरिच्यते ।।9/296
तेषु तेषु तु कृत्येषु तत्तदङ्गं विशिष्यते ।येन यत्साध्यते कार्यं तत्तस्मिञ् श्रेष्ठं उच्यते ।।9/297
चारेणोत्साहयोगेन क्रिययैव च कर्मणाम् ।स्वशक्तिं परशक्तिं च नित्यं विद्यान्महीपतिः ।।9/298
पीडनानि च सर्वाणि व्यसनानि तथैव च ।आरभेत ततः कार्यं संचिन्त्य गुरुलाघवम् ।।9/299
आरभेतैव कर्माणि श्रान्तः श्रान्तः पुनः पुनः ।कर्माण्यारभमाणं हि पुरुषं श्रीर्निषेवते ।।9/300