HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
अप्राणिभिर्यत्क्रियते तल्लोके द्यूतं उच्यते ।प्राणिभिः क्रियते यस्तु स विज्ञेयः समाह्वयः ।।9/223
द्यूतं समाह्वयं चैव यः कुर्यात्कारयेत वा ।तान्सर्वान्घातयेद्राजा शूद्रांश्च द्विजलिङ्गिनः ।।9/224
कितवान्कुशीलवान्क्रूरान्पाषण्डस्थांश्च मानवान् ।विकर्मस्थान्शौण्डिकांश्च क्षिप्रं निर्वासयेत्पुरात् ।।9/225
एते राष्ट्रे वर्तमाना राज्ञः प्रछन्नतस्कराः ।विकर्मक्रियया नित्यं बाधन्ते भद्रिकाः प्रजाः ।।9/226
द्यूतं एतत्पुरा कल्पे दृष्टं वैरकरं महत् ।तस्माद्द्यूतं न सेवेत हास्यार्थं अपि बुद्धिमान् ।।9/227
प्रच्छन्नं वा प्रकाशं वा तन्निषेवेत यो नरः ।तस्य दण्डविकल्पः स्याद्यथेष्टं नृपतेस्तथा ।।9/228
क्षत्रविट्शूद्रयोनिस्तु दण्डं दातुं अशक्नुवन् ।आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः ।।9/229
स्त्रीबालोन्मत्तवृद्धानां दरिद्राणां च रोगिणाम् ।शिफाविदलरज्ज्वाद्यैर्विदध्यान्नृपतिर्दमम् ।।9/230