HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् ।षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च ।।8/337
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् ।द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः ।।8/338
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च ।तृणं च गोभ्यो ग्रासार्थं अस्तेयं मनुरब्रवीत् ।।8/339
योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् ।याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ।।8/340
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके ।आददानः परक्षेत्रान्न दण्डं दातुं अर्हति ।।8/341
असंदितानां संदाता संदितानां च मोक्षकः ।दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् ।।8/342
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् ।यशोऽस्मिन्प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् ।।8/343