HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
7. राजधर्म विषय
यदा परबलानां तु गमनीयतमो भवेत् ।तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ।।7/174
निग्रहं प्रकृतीनां च कुर्याद्योऽरिबलस्य च ।उपसेवेत तं नित्यं सर्वयत्नैर्गुरुं यथा ।।7/175
यदि तत्रापि संपश्येद्दोषं संश्रयकारितम् ।सुयुद्धं एव तत्रापि निर्विशङ्कः समाचरेत् ।।7/176
सर्वोपायैस्तथा कुर्यान्नीतिज्ञः पृथिवीपतिः ।यथास्याभ्यधिका न स्युर्मित्रोदासीनशत्रवः ।।7/177
आयतिं सर्वकार्याणां तदात्वं च विचारयेत् ।अतीतानां च सर्वेषां गुणदोषौ च तत्त्वतः ।।7/178
आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः ।अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ।।7/179