HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
आरण्यानां च सर्वेषां मृगाणां माहिषं विना ।स्त्रीक्षीरं चैव वर्ज्यानि सर्वशुक्तानि चैव हि ।।5/9
दधि भक्ष्यं च शुक्तेषु सर्वं च दधिसंभवम् ।यानि चैवाभिषूयन्ते पुष्पमूलफलैः शुभैः ।।5/10
क्रव्यादाञ् शकुनान्सर्वांस्तथा ग्रामनिवासिनः ।अनिर्दिष्टांश्चैकशफांष्टिट्टिभं च विवर्जयेत् ।।5/11
कलविङ्कं प्लवं हंसं चक्राह्वं ग्रामकुक्कुटम् ।सारसं रज्जुवालं च दात्यूहं शुकसारिके ।।5/12
प्रतुदाञ् जालपादांश्च कोयष्टिनखविष्किरान् ।निमज्जतश्च मत्स्यादान्सौनं वल्लूरं एव च ।।5/13
बकं चैव बलाकां च काकोलं खञ्जरीटकम् ।मत्स्यादान्विड्वराहांश्च मत्स्यानेव च सर्वशः ।।5/14
यो यस्य मांसं अश्नाति स तन्मांसाद उच्यते ।मत्स्यादः सर्वमांसादस्तस्मान्मत्स्यान्विवर्जयेत् ।।5/15
पाठीनरोहितावाद्यौ नियुक्तौ हव्यकव्ययोः ।राजीवान्सिंहतुण्डाश्च सशल्काश्चैव सर्वशः ।।5/16
न भक्षयेदेकचरानज्ञातांश्च मृगद्विजान् ।भक्ष्येष्वपि समुद्दिष्टान्सर्वान्पञ्चनखांस्तथा ।।5/17
श्वाविधं शल्यकं गोधां खड्गकूर्मशशांस्तथा ।भक्ष्यान्पञ्चनखेष्वाहुरनुष्ट्रांश्चैकतोदतह् ।।5/18
छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् ।पलाण्डुं गृञ्जनं चैव मत्या जग्ध्वा पतेद्द्विजः ।।5/19
अमत्यैतानि षड्जग्ध्वा कृच्छ्रं सान्तपनं चरेत् ।यतिचान्द्रायाणं वापि शेषेषूपवसेदहः ।।5/20
संवत्सरस्यैकं अपि चरेत्कृच्छ्रं द्विजोत्तमः ।अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विषेशतः ।।5/21
यज्ञार्थं ब्राह्मणैर्वध्याः प्रशस्ता मृगपक्षिणः ।भृत्यानां चैव वृत्त्यर्थं अगस्त्यो ह्याचरत्पुरा ।।5/22
बभूवुर्हि पुरोडाशा भक्ष्याणां मृगपक्षिणाम् ।पुराणेष्वपि यज्ञेषु ब्रह्मक्षत्रसवेषु च ।।5/23
यत्किं चित्स्नेहसंयुक्तं भक्ष्यं भोज्यं अगर्हितम् ।तत्पर्युषितं अप्याद्यं हविःशेषं च यद्भवेत् ।।5/24
चिरस्थितं अपि त्वाद्यं अस्नेहाक्तं द्विजातिभिः ।यवगोधूमजं सर्वं पयसश्चैव विक्रिया ।।5/25