HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः ।व्रात्यया सह संवासे चाण्डाल्या तावदेव तु ।।8/373
शूद्रो गुप्तं अगुप्तं वा द्वैजातं वर्णं आवसन् ।अगुप्तं अङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते ।।8/374
वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः ।सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति ।।8/375
ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ ।वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् ।।8/376
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह ।विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना ।।8/377
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् ।शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः ।।8/378
मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते ।इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् ।।8/379
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् ।राष्ट्रादेनं बहिः कुर्यात्समग्रधनं अक्षतम् ।।8/380
न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि ।तस्मादस्य वधं राजा मनसापि न चिन्तयेत् ।।8/381
वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् ।यो ब्राह्मण्यां अगुप्तायां तावुभौ दण्डं अर्हतः ।।8/382
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् ।शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः ।।8/383
क्षत्रियायां अगुप्तायां वैश्ये पञ्चशतं दमः ।मूत्रेण मौण्ड्यं इच्छेत्तु क्षत्रियो दण्डं एव वा ।।8/384
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् ।शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम् ।।8/385