HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् ।सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् ।।8/168
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः ।।8/169
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः ।न चादेयं समृद्धोऽपि सूक्ष्मं अप्यर्थं उत्सृजेत् ।।8/170
अनादेयस्य चादानादादेयस्य च वर्जनात् ।दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति ।।8/171
स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् ।बलं संजायते राज्ञः स प्रेत्येह च वर्धते ।।8/172
तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये ।वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः ।।8/173
यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः ।अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः ।।8/174
कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति ।प्रजास्तं अनुवर्तन्ते समुद्रं इव सिन्धवः ।।8/175
यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे ।स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् ।।8/176
कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः ।समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः ।।8/177
अनेन विधिना राजा मिथो विवदतां नृणाम् ।साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् ।।8/178