HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
7. राजधर्म विषय
सर्वेषां तु विदित्वैषां समासेन चिकीर्षितम् ।स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ।।7/202
प्रमाणानि च कुर्वीत तेषां धर्मान्यथोदितान् ।रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ।।7/203
आदानं अप्रियकरं दानं च प्रियकारकम् ।अभीप्सितानां अर्थानां काले युक्तं प्रशस्यते ।।7/204
सर्वं कर्मेदं आयत्तं विधाने दैवमानुषे ।तयोर्दैवं अचिन्त्यं तु मानुषे विद्यते क्रिया ।।7/205
सह वापि व्रजेद्युक्तः संधिं कृत्वा प्रयत्नतः ।मित्रं हिरण्यं भूमिं वा संपश्यंस्त्रिविधं फलम् ।।7/206
पार्ष्णिग्राहं च संप्रेक्ष्य तथाक्रन्दं च मण्डले ।मित्रादथाप्यमित्राद्वा यात्राफलं अवाप्नुयात् ।।7/207