HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
ब्रह्महा च सुरापश्च स्तेयी च गुरुतल्पगः ।एते सर्वे पृथग्ज्ञेया महापातकिनो नराः ।।9/235
चतुर्णां अपि चैतेषां प्रायश्चित्तं अकुर्वताम् ।शारीरं धनसंयुक्तं दण्डं धर्म्यं प्रकल्पयेत् ।।9/236
गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः ।स्तेये च श्वपदं कार्यं ब्रह्महण्यशिराः पुमान् ।।9/237
असंभोज्या ह्यसंयाज्या असंपाठ्याऽविवाहिनः ।चरेयुः पृथिवीं दीनाः सर्वधर्मबहिष्कृताः ।।9/238
ज्ञातिसंबन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः ।निर्दया निर्नमस्कारास्तन्मनोरनुशासनम् ।।9/239
प्रायश्चित्तं तु कुर्वाणाः सर्ववर्णा यथोदितम् ।नाङ्क्या राज्ञा ललाटे स्युर्दाप्यास्तूत्तमसाहसम् ।।9/240
आगःसु ब्राह्मणस्यैव कार्यो मध्यमसाहसः ।विवास्यो वा भवेद्राष्ट्रात्सद्रव्यः सपरिच्छदः ।।9/241
इतरे कृतवन्तस्तु पापान्येतान्यकामतः ।सर्वस्वहारं अर्हन्ति कामतस्तु प्रवासनम् ।।9/242
नाददीत नृपः साधुर्महापातकिनो धनम् ।आददानस्तु तल्लोभात्तेन दोषेण लिप्यते ।।9/243
अप्सु प्रवेश्य तं दण्डं वरुणायोपपादयेत् ।श्रुतवृत्तोपपन्ने वा ब्राह्मणे प्रतिपादयेत् ।।9/244
ईशो दण्डस्य वरुणो राज्ञां दण्डधरो हि सः ।ईशः सर्वस्य जगतो ब्राह्मणो वेदपारगः ।।9/245
यत्र वर्जयते राजा पापकृद्भ्यो धनागमम् ।तत्र कालेन जायन्ते मानवा दीर्घजीविनः ।।9/246
निष्पद्यन्ते च सस्यानि यथोप्तानि विशां पृथक् ।बालाश्च न प्रमीयन्ते विकृतं च न जायते ।।9/247
ब्राह्मणान्बाधमानं तु कामादवरवर्णजम् ।हन्याच्चित्रैर्वधोपायैरुद्वेजनकरैर्नृपः ।।9/248
यावानवध्यस्य वधे तावान्वध्यस्य मोक्षणे ।अधर्मो नृपतेर्दृष्टो धर्मस्तु विनियच्छतः ।।9/249
उदितोऽयं विस्तरशो मिथो विवादमानयोः ।अष्टादशसु मार्गेषु व्यवहारस्य निर्णयः ।।9/250