HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
मङ्गलार्थं स्वस्त्ययनं यज्ञश्चासां प्रजापतेः ।प्रयुज्यते विवाहे तु प्रदानं स्वाम्यकारणम् ।।5/152
अनृतावृतुकाले च मन्त्रसंस्कारकृत्पतिः ।सुखस्य नित्यं दातेह परलोके च योषितः ।।5/153
विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ।उपचार्यः स्त्रिया साध्व्या सततं देववत्पतिः ।।5/154
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।पतिं शुश्रूषते येन तेन स्वर्गे महीयते ।।5/155
पाणिग्राहस्य साध्वी स्त्री जीवतो वा मृतस्य वा ।पतिलोकं अभीप्सन्ती नाचरेत्किं चिदप्रियम् ।।5/156
कामं तु क्सपयेद्देहं पुष्पमूलफलैः शुभैः ।न तु नामापि गृह्णीयात्पत्यौ प्रेते परस्य तु ।।5/157
आसीता मरणात्क्सान्ता नियता ब्रह्मचारिणी ।यो धर्म एकपत्नीनां काङ्क्षन्ती तं अनुत्तमम् ।।5/158
अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् ।दिवं गतानि विप्राणां अकृत्वा कुलसंततिम् ।।5/159
मृते भर्तरि साढ्वी स्त्री ब्रह्मचर्ये व्यवस्थिता ।स्वर्गं गच्छत्यपुत्रापि यथा ते ब्रह्मचारिणः ।।5/160
अपत्यलोभाद्या तु स्त्री भर्तारं अतिवर्तते ।सेह निन्दां अवाप्नोति परलोकाच्च हीयते ।।5/161
नान्योत्पन्ना प्रजास्तीह न चाप्यन्यपरिग्रहे ।न द्वितीयश्च साध्वीनां क्व चिद्भर्तोपदिश्यते ।।5/162