HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
एतदुक्तं द्विजातीनां भक्ष्याभक्ष्यं अशेषतः ।मांसस्यातः प्रवक्ष्यामि विधिं भक्षणवर्जने ।।5/26
प्रोक्षितं भक्षयेन्मांसं ब्राह्मणानां च काम्यया ।यथाविधि नियुक्तस्तु प्राणानां एव चात्यये ।।5/27
प्राणस्यान्नं इदं सर्वं प्रजापतिरकल्पयत् ।स्थावरं जङ्गमं चैव सर्वं प्राणस्य भोजनम् ।।5/28
चराणां अन्नं अचरा दंष्ट्रिणां अप्यदंष्ट्रिणः ।अहस्ताश्च सहस्तानां शूराणां चैव भीरवः ।।5/29
नात्ता दुष्यत्यदन्नाद्यान्प्राणिनोऽहन्यहन्यपि ।धात्रैव सृष्टा ह्याद्याश्च प्राणिनोऽत्तार एव च ।।5/30
यज्ञाय जग्धिर्मांसस्येत्येष दैवो विधिः स्मृतः ।अतोऽन्यथा प्रवृत्तिस्तु राक्षसो विधिरुच्यते ।।5/31
क्रीत्वा स्वयं वाप्युत्पाद्य परोपकृतं एव वा ।देवान्पितॄंश्चार्चयित्वा खादन्मांसं न दुष्यति ।।5/32
नाद्यादविधिना मांसं विधिज्ञोऽनापदि द्विजः ।जग्ध्वा ह्यविधिना मांसं प्रेतस्तैरद्यतेऽवशः ।।5/33
न तादृशं भवत्येनो मृगहन्तुर्धनार्थिनः ।यादृशं भवति प्रेत्य वृथामांसानि खादतः ।।5/34
नियुक्तस्तु यथान्यायं यो मांसं नात्ति मानवः ।स प्रेत्य पशुतां याति संभवानेकविंशतिम् ।।5/35
असंस्कृतान्पशून्मन्त्रैर्नाद्याद्विप्रः कदा चन ।मन्त्रैस्तु संस्कृतानद्याच्छाश्वतं विधिं आस्थितः ।।5/36
कुर्याद्घृतपशुं सङ्गे कुर्यात्पिष्टपशुं तथा ।न त्वेव तु वृथा हन्तुं पशुं इच्छेत्कदा चन ।।5/37
यावन्ति पशुरोमाणि तावत्कृत्वो ह मारणम् ।वृथापशुघ्नः प्राप्नोति प्रेत्य जन्मनि जन्मनि ।।5/38
यज्ञार्थं पशवः सृष्टाः स्वयं एव स्वयंभुवा ।यज्ञोऽस्य भूत्यै सर्वस्य तस्माद्यज्ञे वधोऽवधः ।।5/39
ओषध्यः पशवो वृक्षास्तिर्यञ्चः पक्षिणस्तथा ।यज्ञार्थं निधनं प्राप्ताः प्राप्नुवन्त्युत्सृतीः पुनः ।।5/40
मधुपर्के च यज्ञे च पितृदैवतकर्मणि ।अत्रैव पशवो हिंस्या नान्यत्रेत्यब्रवीन्मनुः ।।5/41
एष्वर्थेषु पशून्हिंसन्वेदतत्त्वार्थविद्द्विजः ।आत्मानं च पशुं चैव गमयत्युत्तमं गतिम् ।।5/42
गृहे गुरावरण्ये वा निवसन्नात्मवान्द्विजः ।नावेदविहितां हिंसां आपद्यपि समाचरेत् ।।5/43
या वेदविहिता हिंसा नियतास्मिंश्चराचरे ।अहिंसां एव तां विद्याद्वेदाद्धर्मो हि निर्बभौ ।।5/44