HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः ।अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः ।।10/25
सूतो वैदेहकश्चैव चण्डालश्च नराधमः ।मागधः तथायोगव एव च क्षत्रजातिश्च ।।10/26
एते षट्सदृशान्वर्णाञ् जनयन्ति स्वयोनिषु ।मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु ।।10/27
यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते ।आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् ।।10/28
ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान् ।परस्परस्य दारेषु जनयन्ति विगर्हितान् ।।10/29
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते ।तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते ।।10/30
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः ।हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु ।।10/31
प्रसाधनोपचारज्ञं अदासं दासजीवनम् ।सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे ।।10/32
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते ।नॄन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये ।।10/33
निषादो मार्गवं सूते दासं नौकर्मजीविनम् ।कैवर्तं इति यं प्राहुरार्यावर्तनिवासिनः ।।10/34
मृतवस्त्रभृत्स्व्नारीषु गर्हितान्नाशनासु च ।भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः ।।10/35
कारावरो निषादात्तु चर्मकारः प्रसूयते ।वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ ।।10/36
चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान् ।आहिण्डिको निषादेन वैदेह्यां एव जायते ।।10/37
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् ।पुक्कस्यां जायते पापः सदा सज्जनगर्हितः ।।10/38
निषादस्त्री तु चण्डालात्पुत्रं अन्त्यावसायिनम् ।श्मशानगोचरं सूते बाह्यानां अपि गर्हितम् ।।10/39
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः ।प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ।।10/40
स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः ।शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः ।।10/41
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे ।उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः ।।10/42