HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
परां अप्यापदं प्राप्तो ब्राह्मणान्न प्रकोपयेत् ।ते ह्येनं कुपिता हन्युः सद्यः सबलवाहनम् ।।9/313
यैः कृतः सर्वभक्ष्योऽग्निरपेयश्च महोदधिः ।क्षयी चाप्यायितः सोमः को न नश्येत्प्रकोप्य तान् ।।9/314
लोकानन्यान्सृजेयुर्ये लोकपालांश्च कोपिताः ।देवान्कुर्युरदेवांश्च कः क्षिण्वंस्तान्समृध्नुयात् ।।9/315
यानुपाश्रित्य तिष्ठन्ति लोका देवाश्च सर्वदा ।ब्रह्म चैव धनं येषां को हिंस्यात्ताञ् जिजीविषुः ।।9/316
अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ।।9/317
श्मशानेष्वपि तेजस्वी पावको नैव दुष्यति ।हूयमानश्च यज्ञेषु भूय एवाभिवर्धते ।।9/318
एवं यद्यप्यनिष्टेषु वर्तन्ते सर्वकर्मसु ।सर्वथा ब्राह्मणाः पूज्याः परमं दैवतं हि तत् ।।9/319
क्षत्रस्यातिप्रवृद्धस्य ब्राह्मणान्प्रति सर्वशः ।ब्रह्मैव संनियन्तृ स्यात्क्षत्रं हि ब्रह्मसंभवम् ।।9/320
अद्भ्योऽग्निर्ब्रह्मतः क्षत्रं अश्मनो लोहं उत्थितम् ।तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति ।।9/321
नाब्रह्म क्षत्रं ऋध्नोति नाक्षत्रं ब्रह्म वर्धते ।ब्रह्म क्षत्रं च संपृक्तं इह चामुत्र वर्धते ।।9/322
दत्त्वा धनं तु विप्रेभ्यः सर्वदण्डसमुत्थितम् ।पुत्रे राज्यं समासृज्य कुर्वीत प्रायणं रणे ।।9/323
एवं चरन्सदा युक्तो राजधर्मेषु पार्थिवः ।हितेषु चैव लोकस्य सर्वान्भृत्यान्नियोजयेत् ।।9/324