HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
8. राजधर्मान्तर्गत व्यवहार-निर्णय
असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः ।अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् ।।8/109
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः ।वसिष्ठश्चापि शपथं शेपे पैजवने नृपे ।।8/110
न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः ।वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति ।।8/111
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने ।ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् ।।8/112
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ।।8/113
अग्निं वाहारयेदेनं अप्सु चैनं निमज्जयेत् ।पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् ।।8/114
यं इद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च ।न चार्तिं ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः ।।8/115
वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा ।नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः ।।8/116