HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
कृत्वा मूत्रं पुरीषं वा खान्याचान्त उपस्पृशेत् ।वेदं अध्येष्यमाणश्च अन्नं अश्नंश्च सर्वदा ।।5/138
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ।शरीरं शौचं इच्छन्हि स्त्री शूद्रस्तु सकृत्सकृत् ।।5/139
शूद्राणां मासिकं कार्यं वपनं न्यायवर्तिनाम् ।वैश्यवच्छौचकल्पश्च द्विजोच्छिष्टं च भोजनम् ।।5/140
नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं न यान्ति याः ।न श्मश्रूणि गतान्यास्यं न दन्तान्तरधिष्ठितम् ।।5/141
स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।भौमिकैस्ते समा ज्ञेया न तैराप्रयतो भवेत् ।।5/142
उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथं चन ।अनिधायैव तद्द्रव्यं आचान्तः शुचितां इयात् ।।5/143
वान्तो विरिक्तः स्नात्वा तु घृतप्राशनं आचरेत् ।आचामेदेव भुक्त्वान्नं स्नानं मैथुनिनः स्मृतम् ।।5/144
सुप्त्वा क्षुत्वा च भुक्त्वा च निष्ठीव्योक्त्वानृतानि च ।पीत्वापोऽध्येष्यमाणश्च आचामेत्प्रयतोऽपि सन् ।।5/145
एषां शौचविधिः कृत्स्नो द्रव्यशुद्धिस्तथैव च ।उक्तो वः सर्ववर्णानां स्त्रीणां धर्मान्निबोधत ।।5/146