HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
एधोदकं मूलफलं अन्नं अभ्युद्यतं च यत् ।सर्वतः प्रतिगृह्णीयान्मध्वथाभयदक्षिणाम् ।।4/247
आहृताभ्युद्यतां भिक्षां पुरस्तादप्रचोदिताम् ।मेने प्रजापतिर्ग्राह्यां अपि दुष्कृतकर्मणः ।।4/248
नाश्नन्ति पितरस्तस्य दशवर्षाणि पञ्च च ।न च हव्यं वहत्यग्निर्यस्तां अभ्यवमन्यते ।।4/249
शय्यां गृहान्कुशान्गन्धानपः पुष्पं मणीन्दधि ।धाना मत्स्यान्पयो मांसं शाकं चैव न निर्णुदेत् ।।4/250
गुरून्भृत्यांश्चोज्जिहीर्षन्नर्चिष्यन्देवतातिथीन् ।सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ।।4/251
गुरुषु त्वभ्यतीतेषु विना वा तैर्गृहे वसन् ।आत्मनो वृत्तिं अन्विच्छन्गृह्णीयात्साधुतः सदा ।।4/252
आर्धिकः कुलमित्रं च गोपालो दासनापितौ ।एते शूद्रेषु भोज्यान्ना याश्चात्मानं निवेदयेत् ।।4/253
यादृशोऽस्य भवेदात्मा यादृशं च चिकीर्षितम् ।यथा चोपचरेदेनं तथात्मानं निवेदयेत् ।।4/254