HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
नाश्रोत्रियतते यज्ञे ग्रामयाजिकृते तथा ।स्त्रिया क्लीबेन च हुते भुञ्जीत ब्राह्मणः क्व चित् ।।4/205
अश्लीकं एतत्साधूनां यत्र जुह्वत्यमी हविः ।प्रतीपं एतद्देवानां तस्मात्तत्परिवर्जयेत् ।।4/206
मत्तक्रुद्धातुराणां च न भुञ्जीत कदा चन ।केशकीटावपन्नं च पदा स्पृष्टं च कामतः ।।4/207
भ्रूणघ्नावेक्षितं चैव संस्पृष्टं चाप्युदक्यया ।पतत्रिणावलीढं च शुना संस्पृष्टं एव च ।।4/208
गवा चान्नं उपघ्रातं घुष्टान्नं च विशेषतः ।गणान्नं गणिकान्नं च विदुषा च जुगुप्सितम् ।।4/209
स्तेनगायनयोश्चान्नं तक्ष्णो वार्धुषिकस्य च ।दीक्षितस्य कदर्यस्य बद्धस्य निगडस्य च ।।4/210
अभिशस्तस्य षण्ढस्य पुंश्चल्या दाम्भिकस्य च ।शुक्तं पर्युषितं चैव शूद्रस्योच्छिष्टं एव च ।।4/211
चिकित्सकस्य मृगयोः क्रूरस्योच्छिष्टभोजिनः ।उग्रान्नं सूतिकान्नं च पर्याचान्तं अनिर्दशम् ।।4/212
अनर्चितं वृथामांसं अवीरायाश्च योषितः ।द्विषदन्नं नगर्यन्नं पतितान्नं अवक्षुतम् ।।4/213
पिशुनानृतिनोश्चान्नं क्रतुविक्रयिणस्तथा ।शैलूषतुन्नवायान्नं कृतघ्नस्यान्नं एव च ।।4/214
कर्मारस्य निषादस्य रङ्गावतारकस्य च ।सुवर्णकर्तुर्वेणस्य शस्त्रविक्रयिणस्तथा ।।4/215
श्ववतां शौण्डिकानां च चैलनिर्णेजकस्य च ।रञ्जकस्य नृशंसस्य यस्य चोपपतिर्गृहे ।।4/216
मृष्यन्ति ये चोपपतिं स्त्रीजितानां च सर्वशः ।अनिर्दशं च प्रेतान्नं अतुष्टिकरं एव च ।।4/217
राजान्नं तेज आदत्ते शूद्रान्नं ब्रह्मवर्चसम् ।आयुः सुवर्णकारान्नं यशश्चर्मावकर्तिनः ।।4/218
कारुकान्नं प्रजां हन्ति बलं निर्णेजकस्य च ।गणान्नं गणिकान्नं च लोकेभ्यः परिकृन्तति ।।4/219
पूयं चिकित्सकस्यान्नं पुंश्चल्यास्त्वन्नं इन्द्रियम् ।विष्ठा वार्धुषिकस्यान्नं शस्त्रविक्रयिणो मलम् ।।4/220
य एतेऽन्ये त्वभोज्यान्नाः क्रमशः परिकीर्तिताः ।तेषां त्वगस्थिरोमाणि वदन्त्यन्नं मनीषिणः ।।4/221
भुक्त्वातोऽन्यतं अस्यान्नं अमत्या क्षपणं त्र्यहम् ।मत्या भुक्त्वाचरेत्कृच्छ्रं रेतोविण्मूत्रं एव च ।।4/222
नाद्याच्छूद्रस्य पक्वान्नं विद्वानश्राद्धिनो द्विजः ।आददीतामं एवास्मादवृत्तावेकरात्रिकम् ।।4/223
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः ।मीमांसित्वोभयं देवाः समं अन्नं अकल्पयन् ।।4/224
तान्प्रजापतिराहैत्य मा कृध्वं विषमं समम् ।श्रद्धापूतं वदान्यस्य हतं अश्रद्धयेतरत् ।।4/225