HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
इमान्नित्यं अनध्यायानधीयानो विवर्जयेत् ।अध्यापनं च कुर्वाणः शिष्याणां विधिपूर्वकम् ।।4/101
कर्णश्रवेऽनिले रात्रौ दिवा पांसुसमूहने ।एतौ वर्षास्वनध्यायावध्यायज्ञाः प्रचक्षते ।।4/102
विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे ।आकालिकं अनध्यायं एतेषु मनुरब्रवीत् ।।4/103
एतांस्त्वभ्युदितान्विद्याद्यदा प्रादुष्कृताग्निषु ।तदा विद्यादनध्यायं अनृतौ चाभ्रदर्शने ।।4/104
निर्घाते भूमिचलने ज्योतिषां चोपसर्जने ।एतानाकालिकान्विद्यादनध्यायानृतावपि ।।4/105
प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिःस्वने ।सज्योतिः स्यादनध्यायः शेषे रात्रौ यथा दिवा ।।4/106
नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च ।धर्मनैपुण्यकामानां पूतिगन्धे च सर्वदा ।।4/107
अन्तर्गतशवे ग्रामे वृषलस्य च सन्निधौ ।अनध्यायो रुद्यमाने समवाये जनस्य च ।।4/108
उदके मध्यरात्रे च विण्मूत्रस्य विसर्जने ।उच्छिष्टः श्राद्धभुक्चैव मनसापि न चिन्तयेत् ।।4/109
प्रतिगृह्य द्विजो विद्वानेकोद्दिष्टस्य केतनम् ।त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ।।4/110
यावदेकानुदिष्टस्य गन्धो लेपश्च तिष्ठति ।विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ।।4/111
शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् ।नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यं एव च ।।4/112
नीहारे बाणशब्दे च संध्ययोरेव चोभयोः ।अमावास्याचतुर्दश्योः पौर्णमास्यष्टकासु च ।।4/113
अमावास्या गुरुं हन्ति शिष्यं हन्ति चतुर्दशी ।ब्रह्माष्टकपौर्णमास्यौ तस्मात्ताः परिवर्जयेत् ।।4/114
पांसुवर्षे दिशां दाहे गोमायुविरुते तथा ।श्वखरोष्ट्रे च रुवति पङ्क्तौ च न पठेद्द्विजः ।।4/115
नाधीयीत श्मशानान्ते ग्रामान्ते गोव्रजेऽपि वा ।वसित्वा मैथुनं वासः श्राद्धिकं प्रतिगृह्य च ।।4/116
प्राणि वा यदि वाप्राणि यत्किं चिच्छ्राद्धिकं भवेत् ।तदालभ्याप्यनध्यायः पाण्यास्यो हि द्विजः स्मृतः ।।4/117
चोरैरुपद्रुते ग्रामे संभ्रमे चाग्निकारिते ।आकालिकं अनध्यायं विद्यात्सर्वाद्भुतेषु च ।।4/118
उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षेपणं स्मृतम् ।अष्टकासु त्वहोरात्रं ऋत्वन्तासु च रात्रिषु ।।4/119
नाधीयीताश्वं आरूढो न वृक्षं न च हस्तिनम् ।न नावं न खरं नोष्ट्रं नेरिणस्थो न यानगः ।।4/120
न विवादे न कलहे न सेनायां न संगरे ।न भुक्तमात्रे नाजीर्णे न वमित्वा न शुक्तके ।।4/121
अतिथिं चाननुज्ञाप्य मारुते वाति वा भृशम् ।रुधिरे च स्रुते गात्राच्छस्त्रेण च परिक्षते ।।4/122
सामध्वनावृग्यजुषी नाधीयीत कदा चन ।वेदस्याधीत्य वाप्यन्तं आरण्यकं अधीत्य च ।।4/123
ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु मानुषः ।सामवेदः स्मृतः पित्र्यस्तस्मात्तस्याशुचिर्ध्वनिः ।।4/124
एतद्विद्वन्तो विद्वांसस्त्रयीनिष्कर्षं अन्वहम् ।क्रमतः पूर्वं अभ्यस्य पश्चाद्वेदं अधीयते ।।4/125
पशुमण्डूकमार्जार श्वसर्पनकुलाखुभिः ।अन्तरागमने विद्यादनध्यायं अहर्निशम् ।।4/126
द्वावेव वर्जयेन्नित्यं अनध्यायौ प्रयत्नतः ।स्वाध्यायभूमिं चाशुद्धं आत्मानं चाशुचिं द्विजः ।।4/127