HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
सवर्णाग्रे द्विजातीनां प्रशस्ता दारकर्मणि ।कामतस्तु प्रवृत्तानां इमाः स्युः क्रमशोऽवराः 3/12
शूद्रैव भार्या शूद्रस्य सा च स्वा च विशः स्मृते ।ते च स्वा चैव राज्ञश्च ताश्च स्वा चाग्रजन्मनः 3/13
न ब्राह्मणक्षत्रिययोरापद्यपि हि तिष्ठतोः ।कस्मिंश्चिदपि वृत्तान्ते शूद्रा भार्योपदिश्यते 3/14
हीनजातिस्त्रियं मोहादुद्वहन्तो द्विजातयः ।कुलान्येव नयन्त्याशु ससन्तानानि शूद्रताम् 3/15
शूद्रावेदी पतत्यत्रेरुतथ्यतनयस्य च ।शौनकस्य सुतोत्पत्त्या तदपत्यतया भृगोः 3/16
शूद्रां शयनं आरोप्य ब्राह्मणो यात्यधोगतिम् ।जनयित्वा सुतं तस्यां ब्राह्मण्यादेव हीयते 3/17
दैवपित्र्यातिथेयानि तत्प्रधानानि यस्य तु ।नाश्नन्ति पितृदेवास्तन्न च स्वर्गं स गच्छति 3/18
वृषलीफेनपीतस्य निःश्वासोपहतस्य च ।तस्यां चैव प्रसूतस्य निष्कृतिर्न विधीयते 3/19