HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्म एव च ।अर्थ एवेह वा श्रेयस्त्रिवर्ग इति तु स्थितिः ।2/224
आचार्यश्च पिता चैव माता भ्राता च पूर्वजः ।नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ।2/225
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः ।माता पृथिव्या मूर्तिस्तु भ्राता स्वो मूर्तिरात्मनः ।2/226
यं मातापितरौ क्लेशं सहेते संभवे नृणाम् ।न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ।2/227
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा ।तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते ।2/228
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते ।न तैरनभ्यनुज्ञातो धर्मं अन्यं समाचरेत् ।2/229
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः ।त एव हि त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ।2/230
पिता वै गार्हपत्योऽग्निर्माताग्निर्दक्षिणः स्मृतः ।गुरुराहवनीयस्तु साग्नित्रेता गरीयसी ।2/231
त्रिष्वप्रमाद्यन्नेतेषु त्रीन्लोकान्विजयेद्गृही ।दीप्यमानः स्ववपुषा देववद्दिवि मोदते ।2/232
इमं लोकं मातृभक्त्या पितृभक्त्या तु मध्यमम् ।गुरुशुश्रूषया त्वेवं ब्रह्मलोकं समश्नुते ।2/233
सर्वे तस्यादृता धर्मा यस्यैते त्रय आदृताः ।अनादृतास्तु यस्यैते सर्वास्तस्याफलाः क्रियाः ।2/234
यावत्त्रयस्ते जीवेयुस्तावन्नान्यं समाचरेत् ।तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ।2/235
तेषां अनुपरोधेन पारत्र्यं यद्यदाचरेत् ।तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ।2/236
त्रिष्वेतेष्वितिकृत्यं हि पुरुषस्य समाप्यते ।एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ।2/237