HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा ।क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत ।।12/53
बहून्वर्षगणान्घोरान्नरकान्प्राप्य तत्क्षयात् ।संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान् ।।12/54
श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् ।चण्डालपुक्कसानां च ब्रह्महा योनिं ऋच्छति ।।12/55
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् ।हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् ।।12/56
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् ।हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः ।।12/57
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणां अपि ।क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः ।।12/58
हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः ।परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः ।।12/59
संयोगं पतितैर्गत्वा परस्यैव च योषितम् ।अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः ।।12/60
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः ।विविधाणि च रत्नानि जायते हेमकर्तृषु ।।12/61
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः ।मधु दंशः पयः काको रसं श्वा नकुलो घृतम् ।।12/62
मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः ।चीरीवाकस्तु लवणं बलाका शकुनिर्दधि ।।12/63
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः ।कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ।।12/64
छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं तु बर्हिणः ।श्वावित्कृतान्नं विविधं अकृतान्नं तु शल्यकः ।।12/65
बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम् ।रक्तानि हृत्वा वासांसि जायते जीवजीवकः ।।12/66
वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः ।स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः ।।12/67
यद्वा तद्वा परद्रव्यं अपहृत्य बलान्नरः ।अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।।12/68
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषं अवाप्नुयुः ।एतेषां एव जन्तूनां भार्यात्वं उपयान्ति ताः ।।12/69
स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि ।पापान्संसृत्य संसारान्प्रेष्यतां यान्ति शत्रुषु ।।12/70
वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः ।अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ।।12/71
मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ।चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः ।।12/72