HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् ।येन वेदयते सर्वं सुखं दुःखं च जन्मसु ।।12/13
तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च ।उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः ।।12/14
असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः ।उच्चावचानि भूतानि सततं चेष्टयन्ति याः ।।12/15
पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् ।शरीरं यातनार्थीयं अन्यदुत्पद्यते ध्रुवम् ।।12/16
तेनानुभूय ता यामीः शरीरेणेह यातनाः ।तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः ।।12/17
सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान् ।व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ ।।12/18
तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह ।याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् ।।12/19
यद्याचरति धर्मं स प्रायशोऽधर्मं अल्पशः ।तैरेव चावृतो भूतैः स्वर्गे सुखं उपाश्नुते ।।12/20
यदि तु प्रायशोऽधर्मं सेवते धर्मं अल्पशः ।तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः ।।12/21
यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः ।तान्येव पञ्च भूतानि पुनरप्येति भागशः ।।12/22
एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा ।धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः ।।12/23