HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
शूद्रस्तु वृत्तिं आकाङ्क्षन्क्षत्रं आराधयेद्यदि ।धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् ।।10/121
स्वर्गार्थं उभयार्थं वा विप्रानाराधयेत्तु सः ।जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता ।।10/122
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते ।यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम् ।।10/123
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः ।शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् ।।10/124
उच्छिष्टं अन्नं दातव्यं जीर्णानि वसनानि च ।पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः ।।10/125
न शूद्रे पातकं किं चिन्न च संस्कारं अर्हति ।नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् ।।10/126
धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तं अनुष्ठिताः ।मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च ।।10/127
यथा यथा हि सद्वृत्तं आतिष्ठत्यनसूयकः ।तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः ।।10/128
शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः ।शूद्रो हि धनं आसाद्य ब्राह्मणानेव बाधते ।।10/129
एते चतुर्णां वर्णानां आपद्धर्माः प्रकीर्तिताः ।यान्सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् ।।10/130
एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः ।अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् ।।10/131