HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
एतद्विधानं विज्ञेयं विभागस्यैकयोनिषु ।बह्वीषु चैकजातानां नानास्त्रीषु निबोधत ।।9/148
ब्राह्मणस्यानुपूर्व्येण चतस्रस्तु यदि स्त्रियः ।तासां पुत्रेषु जातेषु विभागेऽयं विधिः स्मृतः ।।9/149
कीनाशो गोवृषो यानं अलङ्कारश्च वेश्म च ।विप्रस्याउद्धारिकं देयं एकांशश्च प्रधानतः ।।9/150
त्र्यंशं दायाद्धरेद्विप्रो द्वावंशौ क्षत्रियासुतः ।वैश्याजः सार्धं एवांशं अंशं शूद्रासुतो हरेत् ।।9/151
सर्वं वा रिक्थजातं तद्दशधा परिकल्प्य च ।धर्म्यं विभागं कुर्वीत विधिनानेन धर्मवित् ।।9/152
चतुरोऽंशान्हरेद्विप्रस्त्रीनंशान्क्षत्रियासुतः ।वैश्यापुत्रो हरेद्द्व्यंशं अंशं शूद्रासुतो हरेत् ।।9/153
यद्यपि स्यात्तु सत्पुत्रोऽप्यसत्पुत्रोऽपि वा भवेत् ।नाधिकं दशमाद्दद्याच्छूद्रापुत्राय धर्मतः ।।9/154
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् ।यदेवास्य पिता दद्यात्तदेवास्य धनं भवेत् ।।9/155
समवर्णासु वा जाताः सर्वे पुत्रा द्विजन्मनाम् ।उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ।।9/156
शूद्रस्य तु सवर्णैव नान्या भार्या विधीयते ।तस्यां जाताः समांशाः स्युर्यदि पुत्रशतं भवेत् ।।9/157