HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः ।सुरूपं वा विरूपं वा पुमानित्येव भुञ्जते ।।9/14
पौंश्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः ।रक्षिता यत्नतोऽपीह भर्तृष्वेता विकुर्वते ।।9/15
एवं स्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् ।परमं यत्नं आतिष्ठेत्पुरुषो रक्षणं प्रति ।।9/16
शय्यासनं अलङ्कारं कामं क्रोधं अनार्जवं ंःअनार्यताम्] ।द्रोहभावं कुचर्यां च स्त्रीभ्यो मनुरकल्पयत् ।।9/17
नास्ति स्त्रीणां क्रिया मन्त्रैरिति धर्मे व्यवस्थितिः ।निरिन्द्रिया ह्यमन्त्राश्च स्त्रीभ्योऽनृतं इति स्थितिः ।।9/18
तथा च श्रुतयो बह्व्यो निगीता निगमेष्वपि ।स्वालक्षण्यपरीक्षार्थं तासां शृणुत निष्कृतीः ।।9/19
यन्मे माता प्रलुलुभे विचरन्त्यपतिव्रता ।तन्मे रेतः पिता वृङ्क्तां इत्यस्यैतन्निदर्शनम् ।।9/20
ध्यायत्यनिष्टं यत्किं चित्पाणिग्राहस्य चेतसा ।तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ।।9/21
यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि ।तादृग्गुणा सा भवति समुद्रेणेव निम्नगा ।।9/22
अक्षमाला वसिष्ठेन संयुक्ताधमयोनिजा ।शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ।।9/23
एताश्चान्याश्च लोकेऽस्मिन्नपकृष्टप्रसूतयः ।उत्कर्षं योषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ।।9/24