HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
त्रिरात्रं आहुराशौचं आचार्ये संस्थिते सति ।तस्य पुत्रे च पत्न्यां च दिवारात्रं इति स्थितिः ।।5/80
श्रोत्रिये तूपसंपन्ने त्रिरात्रं अशुचिर्भवेत् ।मातुले पक्षिणीं रात्रिं शिष्यर्त्विग्बान्धवेषु च ।।5/81
प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितः ।अश्रोत्रिये त्वहः कृत्स्नं अनूचाने तथा गुरौ ।।5/82
शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः ।वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ।।5/83
न वर्धयेदघाहानि प्रत्यूहेन्नाग्निषु क्रियाः ।न च तत्कर्म कुर्वाणः सनाभ्योऽप्यशुचिर्भवेत् ।।5/84
दिवाकीर्तिं उदक्यां च पतितं सूतिकां तथा ।शवं तत्स्पृष्टिनं चैव स्पृष्ट्वा स्नानेन शुध्यति ।।5/85
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने ।सौरान्मन्त्रान्यथोत्साहं पावमानीश्च शक्तितः ।।5/86
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुध्यति ।आचम्यैव तु निःस्नेहं गां आलभ्यार्कं ईक्ष्य वा ।।5/87
आदिष्टी नोदकं कुर्यादा व्रतस्य समापनात् ।समाप्ते तूदकं कृत्वा त्रिरात्रेणैव शुध्यति ।।5/88
वृथासंकरजातानां प्रव्रज्यासु च तिष्ठताम् ।आत्मनस्त्यागिनां चैव निवर्तेतोदकक्रिया ।।5/89
पाषण्डं आश्रितानां च चरन्तीनां च कामतः ।गर्भभर्तृद्रुहां चैव सुरापीनां च योषिताम् ।।5/90
आचार्यं स्वं उपाध्यायं पितरं मातरं गुरुम् ।निर्हृत्य तु व्रती प्रेतान्न व्रतेन वियुज्यते ।।5/91
दक्षिणेन मृतं शूद्रं पुरद्वारेण निर्हरेत् ।पश्चिमोत्तरपूर्वैस्तु यथायोगं द्विजन्मनः ।।5/92
न राज्ञां अघदोषोऽस्ति व्रतिनां न च सत्त्रिणाम् ।ऐन्द्रं स्थानं उपासीना ब्रह्मभूता हि ते सदा ।।5/93
राज्ञो महात्मिके स्थाने सद्यःशौचं विधीयते ।प्रजानां परिरक्षार्थं आसनं चात्र कारणम् ।।5/94
डिम्भाहवहतानां च विद्युता पार्थिवेन च ।गोब्राह्मणस्य चैवार्थे यस्य चेच्छति पार्थिवः ।।5/95
सोमाग्न्यर्कानिलेन्द्राणां वित्ताप्पत्योर्यमस्य च ।अष्टानां लोकपालानां वपुर्धारयते नृपः ।।5/96
लोकेशाधिष्ठितो राजा नास्याशौचं विधीयते ।शौचाशौचं हि मर्त्यानां लोकेभ्यः प्रभवाप्ययौ ।।5/97
उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च ।सद्यः संतिष्ठते यज्ञस्तथाशौचं इति स्थितिः ।।5/98
विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्रियो वाहनायुधम् ।वैश्यः प्रतोदं रश्मीन्वा यष्टिं शूद्रः कृतक्रियः ।।5/99