HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
ये द्विजानां अपसदा ये चापध्वंसजाः स्मृताः ।ते निन्दितैर्वर्तयेयुर्द्विजानां एव कर्मभिः ।।10/46
सूतानां अश्वसारथ्यं अम्बष्ठानां चिकित्सनम् ।वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः ।।10/47
मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च ।मेदान्ध्रचुञ्चुमद्गूनां आरण्यपशुहिंसनम् ।।10/48
क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम् ।धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् ।।10/49
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च ।वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ।।10/50
चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः ।अपपात्राश्च कर्तव्या धनं एषां श्वगर्दभम् ।।10/51
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् ।कार्ष्णायसं अलङ्कारः परिव्रज्या च नित्यशः ।।10/52
न तैः समयं अन्विच्छेत्पुरुषो धर्मं आचरन् ।व्यवहारो मिथस्तेषां विवाहः सदृशैः सह ।।10/53
अन्नं एषां पराधीनं देयं स्याद्भिन्नभाजने ।रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ।।10/54
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः ।अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः ।।10/55
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया ।वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ।।10/56