HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
9. राज धर्मान्तर्गत व्यवहार निर्णय
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् ।स पारयन्नेव शवस्तस्मात्पारशवः स्मृतः ।।9/178
दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।सोऽनुज्ञातो हरेदंशं इति धर्मो व्यवस्थितः ।।9/179
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् ।पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ।।9/180
य एतेऽभिहिताः पुत्राः प्रसङ्गादन्यबीजजाः ।यस्य ते बीजतो जातास्तस्य ते नेतरस्य तु ।।9/181
भ्रातॄणां एकजातानां एकश्चेत्पुत्रवान्भवेत् ।सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ।।9/182
सर्वासां एकपत्नीनां एका चेत्पुत्रिणी भवेत् ।सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ।।9/183
श्रेयसः श्रेयसोऽलाभे पापीयान्रिक्थं अर्हति ।बहवश्चेत्तु सदृशाः सर्वे रिक्थस्य भागिनः ।।9/184
न भ्रातरो न पितरः पुत्रा रिक्थहराः पितुः ।पिता हरेदपुत्रस्य रिक्थं भ्रातर एव च ।।9/185
त्रयाणां उदकं कार्यं त्रिषु पिण्डः प्रवर्तते ।चतुर्थः संप्रदातैषां पञ्चमो नोपपद्यते ।।9/186