HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
त्रीणि देवाः पवित्राणि ब्राह्मणानां अकल्पयन् ।अदृष्टं अद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते ।।5/127
आपः शुद्धा भूमिगता वैतृष्ण्यं यासु गोर्भवेत् ।अव्याप्ताश्चेदमेध्येन गन्धवर्णरसान्विताः ।।5/128
नित्यं शुद्धः कारुहस्तः पण्ये यच्च प्रसारितम् ।ब्रह्मचारिगतं भैक्ष्यं नित्यं मेध्यं इति स्थितिः ।।5/129
नित्यं आस्यं शुचि स्त्रीणां शकुनिः फलपातने ।प्रस्रवे च शुचिर्वत्सः श्वा मृगग्रहणे शुचिः ।।5/130
श्वभिर्हतस्य यन्मांसं शुचि तन्मनुरब्रवीत् ।क्रव्याद्भिश्च हतस्यान्यैश्चण्डालाद्यैश्च दस्युभिः ।।5/131
ऊर्ध्वं नाभेर्यानि खानि तानि मेध्यानि सर्वशः ।यान्यधस्तान्यमेध्यानि देहाच्चैव मलाश्च्युताः ।।5/132
मक्षिका विप्रुषश्छाया गौरश्वः सूर्यरश्मयः ।रजो भूर्वायुरग्निश्च स्पर्शे मेध्यानि निर्दिशेत् ।।5/133
विण्मूत्रोत्सर्गशुद्ध्यर्थं मृद्वार्यादेयं अर्थवत् ।दैहिकानां मलानां च शुद्धिषु द्वादशस्वपि ।।5/134
वसा शुक्रं असृङ्मज्जा मूत्रविट्घ्राणकर्णविट् ।श्लेश्म अश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ।।5/135
एका लिङ्गे गुदे तिस्रस्तथैकत्र करे दश ।उभयोः सप्त दातव्या मृदः शुद्धिं अभीप्सता ।।5/136