HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
अह्ना चैकेन रात्र्या च त्रिरात्रैरेव च त्रिभिः ।शवस्पृशो विशुध्यन्ति त्र्यहादुदकदायिनः ।।5/64
गुरोः प्रेतस्य शिष्यस्तु पितृमेधं समाचरन् ।प्रेतहारैः समं तत्र दशरात्रेण शुध्यति ।।5/65
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशुध्यति ।रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ।।5/66
नृणां अकृतचूडानां विशुद्धिर्नैशिकी स्मृता ।निर्वृत्तचूडकानां तु त्रिरात्राच्छुद्धिरिष्यते ।।5/67
ऊनद्विवार्षिकं प्रेतं निदध्युर्बान्धवा बहिः ।अलंकृत्य शुचौ भूमावस्थिसंचयनादृते ।।5/68
नास्य कार्योऽग्निसंस्कारो न च कार्योदकक्रिया ।अरण्ये काष्ठवत्त्यक्त्वा क्षपेयुस्त्र्यहं एव तु ।।5/69
नात्रिवर्षस्य कर्तव्या बान्धवैरुदकक्रिया ।जातदन्तस्य वा कुर्युर्नाम्नि वापि कृते सति ।।5/70
सब्रह्मचारिण्येकाहं अतीते क्षपणं स्मृतम् ।जन्मन्येकोदकानां तु त्रिरात्राच्छुद्धिरिष्यते ।।5/71
स्त्रीणां असंस्कृतानां तु त्र्यहाच्छुध्यन्ति बान्धवाः ।यथोक्तेनैव कल्पेन शुध्यन्ति तु सनाभयः ।।5/72
अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ।मांसाशनं च नाश्नीयुः शयीरंश्च पृथक्क्षितौ ।।5/73
संनिधावेष वै कल्पः शावाशौचस्य कीर्तितः ।असंनिधावयं ज्ञेयो विधिः संबन्धिबान्धवैः ।।5/74