HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
नाग्निं मुखेनोपधमेन्नग्नां नेक्षेत च स्त्रियम् ।नामेध्यं प्रक्षिपेदग्नौ न च पादौ प्रतापयेत् ।।4/53
अधस्तान्नोपदध्याच्च न चैनं अभिलङ्घयेत् ।न चैनं पादतः कुर्यान्न प्राणाबाधं आचरेत् ।।4/54
नाश्नीयात्संधिवेलायां न गच्छेन्नापि संविशेत् ।न चैव प्रलिखेद्भूमिं नात्मनोऽपहरेत्स्रजम् ।।4/55
नाप्सु मूत्रं पुरीषं वा ष्ठीवनं वा समुत्सृजेत् ।अमेध्यलिप्तं अन्यद्वा लोहितं वा विषाणि वा ।।4/56
नैकः सुप्याच्छून्यगेहे न श्रेयांसं प्रबोधयेत् ।नोदक्ययाभिभाषेत यज्ञं गच्छेन्न चावृतः ।।4/57
अग्न्यगारे गवां गोष्ठे ब्राह्मणानां च संनिधौ ।स्वाध्याये भोजने चैव दक्षिनं पाणिं उद्धरेत् ।।4/58
न वारयेद्गां धयन्तीं न चाचक्षीत कस्य चित् ।न दिवीन्द्रायुधं दृष्ट्वा कस्य चिद्दर्शयेद्बुधः ।।4/59
नाधर्मिके वसेद्ग्रामे न व्याधिबहुले भृशम् ।नैकः प्रपद्येताध्वानं न चिरं पर्वते वसेत् ।।4/60
न शूद्रराज्ये निवसेन्नाधार्मिकजनावृते ।न पाषण्डिगणाक्रान्ते नोपस्षृटेऽन्त्यजैर्नृभिः ।।4/61
न भुञ्जीतोद्धृतस्नेहं नातिसौहित्यं आचरेत् ।नातिप्रगे नातिसायं न सायं प्रातराशितः ।।4/62
न कुर्वीत वृथाचेष्टां न वार्यञ्जलिना पिबेत् ।नोत्सङ्गे भक्षयेद्भक्ष्यान्न जातु स्यात्कुतूहली ।।4/63
न नृत्येदथ वा गायेन्न वादित्राणि वादयेत्] ।नास्फोटयेन्न च क्ष्वेडेन्न च रक्तो विरावयेत् ।।4/64
न पादौ धावयेत्कांस्ये कदा चिदपि भाजने ।न भिन्नभाण्डे भुञ्जीत न भावप्रतिदूषिते ।।4/65
उपानहौ च वासश्च धृतं अन्यैर्न धारयेत् ।उपवीतं अलङ्कारं स्रजं करकं एव च ।।4/66