HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
श्राद्धं भुक्त्वा य उच्छिष्टं वृषलाय प्रयच्छति ।स मूढो नरकं याति कालसूत्रं अवाक्शिराः 3/249
श्राद्धभुग्वृषलीतल्पं तदहर्योऽधिगच्छति ।तस्याः पुरीषे तं मासं पितरस्तस्य शेरते 3/250
पृष्ट्वा स्वदितं इत्येवं तृप्तानाचामयेत्ततः ।आचान्तांश्चानुजानीयादभितो रम्यतां इति 3/251
स्वधास्त्वित्येव तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।स्वधाकारः परा ह्याषीः सर्वेषु पितृकर्मसु 3/252
ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत् ।यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्ततो द्विजैः 3/253
पित्र्ये स्वदितं इत्येव वाच्यं गोष्ठे तु सुशृतम् ।संपन्नं इत्यभ्युदये दैवे रुचितं इत्यपि 3/254
अपराह्णस्तथा दर्भा वास्तुसंपादनं तिलाः ।सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः 3/255
दर्भाः पवित्रं पूर्वाह्णो हविष्याणि च सर्वशः ।पवित्रं यच्च पूर्वोक्तं विज्ञेया हव्यसंपदः 3/256
मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतम् ।अक्सारलवणं चैव प्रकृत्या हविरुच्यते 3/257
विसृज्य ब्राह्मणांस्तांस्तु नियतो वाग्यतः शुचिः ।दक्षिणां दिशं आकाङ्क्षन्याचेतेमान्वरान्पितॄन् 3/258
दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ।श्रद्धा च नो मा व्यगमद्बहुदेयं च नोऽस्त्विति 3/259
एवं निर्वपणं कृत्वा पिण्डांस्तांस्तदनन्तरम् ।गां विप्रं अजं अग्निं वा प्राशयेदप्सु वा क्षिपेत् 3/260
पिण्डनिर्वपणं के चित्परस्तादेव कुर्वते ।वयोभिः खादयन्त्यन्ये प्रक्षिपन्त्यनलेऽप्सु वा 3/261
पतिव्रता धर्मपत्नी पितृपूजनतत्परा ।मध्यमं तु ततः पिण्डं अद्यात्सम्यक्सुतार्थिनी 3/262
आयुष्मन्तं सुतं सूते यशोमेधासमन्वितम् ।धनवन्तं प्रजावन्तं सात्त्विकं धार्मिकं तथा 3/263
प्रक्साल्य हस्तावाचाम्य ज्ञातिप्रायं प्रकल्पयेत् ।ज्ञातिभ्यः सत्कृतं दत्त्वा बान्धवानपि भोजयेत् 3/264
उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः ।ततो गृहबलिं कुर्यादिति धर्मो व्यवस्थितः 3/265
हविर्यच्चिररात्राय यच्चानन्त्याय कल्पते ।पितृभ्यो विधिवद्दत्तं तत्प्रवक्ष्याम्यशेषतः 3/266