HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
दैवाद्यन्तं तदीहेत पित्राद्यन्तं न तद्भवेत् ।पित्राद्यन्तं त्वीहमानः क्षिप्रं नश्यति सान्वयः 3/205
शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।दक्षिनाप्रवणं चैव प्रयत्नेनोपपादयेत् 3/206
अवकाशेषु चोक्षेषु जलतीरेषु चैव हि ।विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा 3/207
आसनेषूपक्ल्प्तेषु बर्हिष्मत्सु पृथक्पृथक् ।उपस्पृष्टोदकान्सम्यग्विप्रांस्तानुपवेशयेत् 3/208
उपवेश्य तु तान्विप्रानासनेष्वजुगुप्सितान् ।गन्धमाल्यैः सुरभिभिरर्चयेद्दैवपूर्वकम् 3/209
तेषां उदकं आनीय सपवित्रांस्तिलानपि ।अग्नौ कुर्यादनुज्ञातो ब्राह्मणो ब्राह्मणैः सह 3/210
अग्नेः सोमयमाभ्यां च कृत्वाप्यायनं आदितः ।हविर्दानेन विधिवत्पश्चात्संतर्पयेत्पितॄन् 3/211
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।यो ह्यग्निः स द्विजो विप्रैर्मन्त्रदर्शिभिरुच्यते 3/212
अक्रोधनान्सुप्रसादान्वदन्त्येतान्पुरातनान् ।लोकस्याप्यायने युक्तान्श्राद्धदेवान्द्विजोत्तमान् 3/213
अपसव्यं अग्नौ कृत्वा सर्वं आवृत्य विक्रमम् ।अपसव्येन हस्तेन निर्वपेदुदकं भुवि 3/214
त्रींस्तु तस्माद्धविःशेषात्पिण्डान्कृत्वा समाहितः ।औदकेनैव विधिना निर्वपेद्दक्षिणामुखः 3/215
न्युप्य पिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम् ।तेषु दर्भेषु तं हस्तं निर्मृज्याल्लेपभागिनाम् 3/216
आचम्योदक्परावृत्य त्रिरायम्य शनैरसून् ।षडृतूंश्च नमस्कुर्यात्पितॄनेव च मन्त्रवत् 3/217
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।अवजिघ्रेच्च तान्पिण्डान्यथान्युप्तान्समाहितः 3/218
पिण्डेभ्यस्त्वल्पिकां मात्रां समादायानुपूर्वशः ।तानेव विप्रानासीनान्विधिवत्पूर्वं आशयेत् 3/219
ध्रियमाणे तु पितरि पूर्वेषां एव निर्वपेत् ।विप्रवद्वापि तं श्राद्धे स्वकं पितरं आशयेत् 3/220
पिता यस्य निवृत्तः स्याज्जीवेच्चापि पितामहः ।पितुः स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् 3/221
पितामहो वा तच्छ्राद्धं भुञ्जीतेत्यब्रवीन्मनुः ।कामं वा समनुज्ञातः स्वयं एव समाचरेत् 3/222
तेषां दत्त्वा तु हस्तेषु सपवित्रं तिलोदकम् ।तत्पिण्डाग्रं प्रयच्छेत स्वधैषां अस्त्विति ब्रुवन् 3/223
पाणिभ्यां तूपसंगृह्य स्वयं अन्नस्य वर्धितम् ।विप्रान्तिके पितॄन्ध्यायन्शनकैरुपनिक्षिपेत् 3/224
उभयोर्हस्तयोर्मुक्तं यदन्नं उपनीयते ।तद्विप्रलुम्पन्त्यसुराः सहसा दुष्टचेतसः 3/225
गुणांश्च सूपशाकाद्यान्पयो दधि घृतं मधु ।विन्यसेत्प्रयतः पूर्वं भूमावेव समाहितः 3/226
भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च ।हृद्यानि चैव मांसानि पानानि सुरभीणि च 3/227
उपनीय तु तत्सर्वं शनकैः सुसमाहितः ।परिवेषयेत प्रयतो गुणान्सर्वान्प्रचोदयन् 3/228
नास्रं आपातयेज्जातु न कुप्येन्नानृतं वदेत् ।न पादेन स्पृशेदन्नं न चैतदवधूनयेत् 3/229
अस्रं गमयति प्रेतान्कोपोऽरीननृतं शुनः ।पादस्पर्शस्तु रक्षांसि दुष्कृतीनवधूननम् 3/230
यद्यद्रोचेत विप्रेभ्यस्तत्तद्दद्यादमत्सरः ।ब्रह्मोद्याश्च कथाः कुर्यात्पितॄणां एतदीप्सितम् 3/231
स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैव हि ।आख्यानानीतिहासांश्च पुराणानि खिलानि च 3/232
हर्षयेद्ब्राह्मणांस्तुष्टो भोजयेच्च शनैःशनैः ।अन्नाद्येनासकृच्चैतान्गुणैश्च परिचोदयेत् 3/233
व्रतस्थं अपि दौहित्रं श्राद्धे यत्नेन भोजयेत् ।कुतपं चासनं दद्यात्तिलैश्च विकिरेन्महीम् 3/234
त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः ।त्रीणि चात्र प्रशंसन्ति शौचं अक्रोधं अत्वराम् 3/235
अत्युष्णं सर्वं अन्नं स्याद्भुञ्जीरंस्ते च वाग्यताः ।न च द्विजातयो ब्रूयुर्दात्रा पृष्टा हविर्गुणान् 3/236
यावदुष्मा भवत्यन्नं यावदश्नन्ति वाग्यताः ।पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः 3/237
यद्वेष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः ।सोपानत्कश्च यद्भुङ्क्ते तद्वै रक्षांसि भुञ्जते 3/238