HOME
ABOUT US
CONTACT US
Language
HINDI
ENGLISH
MARATHEE
GUJARATI
TELGU
ODIYA
QUICK LINKS
--CHAPTER NUMBER--
1. सृष्टि उत्पत्ति एवं धर्मोत्पत्ति विषय
2. संस्कार एवं ब्रह्मचर्याश्रम विषय
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
4. गृह्स्थान्तर्गत आजीविका एवं व्रत विषय
5. गृहस्थान्तर्गत-भक्ष्याभक्ष्य-देहशुद्धि-द्रव्यशुद्धि-स्त्रीधर्म विषय
6. वानप्रस्थ-सन्यासधर्म विषय
7. राजधर्म विषय
8. राजधर्मान्तर्गत व्यवहार-निर्णय
9. राज धर्मान्तर्गत व्यवहार निर्णय
10. चातुर्वर्ण्य धर्मान्तर्गत वैश्य शुद्र के धर्म एवं चातुर्वर्ण्य धर्म का उपसंहार
11. प्रायश्चित विषय
12. कर्मफल विधान एवं निःश्रेयस कर्मों का वर्णन
--SHLOKE NUMBER--
HOME >>
CHAPTER HEADING >>
SHLOK
3. समावर्तन, विवाह एवं पञ्चयज्ञविधान-विधान
यस्मादुत्पत्तिरेतेषां सर्वेषां अप्यशेषतः ।ये च यैरुपचर्याः स्युर्नियमैस्तान्निबोधत 3/193
मनोर्हैरण्यगर्भस्य ये मरीच्यादयः सुताः ।तेषां ऋषीणां सर्वेषां पुत्राः पितृगणाः स्मृताः 3/194
विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।अग्निष्वात्ताश्च देवानां मारीचा लोकविश्रुताः 3/195
दैत्यदानवयक्षाणां गन्धर्वोरगरक्षसाम् ।सुपर्णकिन्नराणां च स्मृता बर्हिषदोऽत्रिजाः 3/196
सोमपा नाम विप्राणां क्षत्रियाणां हविर्भुजः ।वैश्यानां आज्यपा नाम शूद्राणां तु सुकालिनः 3/197
सोमपास्तु कवेः पुत्रा हविष्मन्तोऽङ्गिरःसुताः ।पुलस्त्यस्याज्यपाः पुत्रा वसिष्ठस्य सुकालिनः 3/198
अग्निदग्धानग्निदग्धान्काव्यान्बर्हिषदस्तथा ।अग्निष्वात्तांश्च सौम्यांश्च विप्राणां एव निर्दिशेत् 3/199
य एते तु गणा मुख्याः पितॄणां परिकीर्तिताः ।तेषां अपीह विज्ञेयं पुत्रपौत्रं अनन्तकम् 3/200
ऋषिभ्यः पितरो जाताः पितृभ्यो देवमानवाः ।देवेभ्यस्तु जगत्सर्वं चरं स्थाण्वनुपूर्वशः 3/201
राजतैर्भाजनैरेषां अथो वा रजतान्वितैः ।वार्यपि श्रद्धया दत्तं अक्षयायोपकल्पते 3/202